Rākiṇī Rādhikā Stavam – Divine Hymn Recited by Mother Ānanda Bhairavī Before Lord Ānanda Bhairava (Shiva)

Explore Rakini Radhikastavam, a rare sacred hymn recited by Mother Anand Bhairavi before Lord Anand Bhairava (Shiva). Includes meaning, spiritual significance, and devotional insights.

Rākiṇī Rādhikā Stavam – Divine Hymn Recited by Mother Ānanda Bhairavī Before Lord Ānanda Bhairava (Shiva)

राकिणीराधिकास्तवम्

आन्दोलिता रसनिधौ कुलचञ्चला या
मायामयो सकलदुःखविनाशवीरा ।
वीरासना स्थितिगता सुलभा मुनीनां
भव्या प्रपातु भविका कुलराकिणी माम् ॥ ४१-१८॥

आनन्दसिन्धु जडिताखिलसारपाना
बाला कुलीननमिता दलषट्कुलस्था ।
कालीकलामलगुणा धनिनां धनस्था ।
कृष्णेश्वरी समुदयं कुरु राकिणी मे ॥ ४१-१९॥

या राकिणी त्रिजगतामुदयाय चेष्टा
संज्ञामयी कुलवती कुलवल्लभस्था ।
विश्वेश्वरी स्मरहरप्रियकर्मनिष्ठा
कृष्णप्रिया मम सुखं परिपातु देवी ॥ ४१-२०॥

षड्वर्गनाथकरपद्मनिषेविता या
राधेश्वरी प्रियकरी सुरसुन्दरी सा ।
माता कुलेशजननी जगतां मनुस्था ।
विद्या परा रिपुहरावत मे शरीरम् ॥ ४१-२१॥

गोविन्दरामरमणी नवमालिनी या
राज्येश्वरी स्मरहरा नवकामिनी वा ।
मे षड्दलाश्रितसुरं परिपातु नित्यं
श्रीकुण्डली सुविमला कुलराकिणी सा ॥ ४१-२२॥

श्रीसुन्दरी कुलपरा कुलवृन्दवन्द्या
सन्ध्याविधि प्रभवतामतिकामतीर्था ।
श्रीदायिनी कुलगणामलभावदात्री
नित्यं प्रपातु विषयं कुलषड्दलानाम् ॥ ४१-२३॥

चैतन्यदाननिरतां त्रिगुणाभिरामां
श्यामां नितम्बधृतसुन्दररत्नघण्टाम् ।
नीलाचलस्थितकरां वरदानहस्तां
श्रीकृष्णवाम कमलोपरि पूजयामि ॥ ४१-२४॥

तां राकिणीं त्रिरमणीं समलापहन्त्रीं
सर्वस्थितां गगनमातरमम्बुजस्थाम् ।
पद्मासनां श्रुतिभुजां गुरुजामनन्तां
शान्तां षडम्बुजदलोपरि पूजयामि ॥ ४१-२५॥

शान्तिं कृपाकपटकोपरि नाशमुक्तिं
शिवां परमवैष्णवपूजिताङ्घ्रिम् ।
राधां सुधां वरमयीं जगतां गुणस्थां
धर्मार्णवां रसदले परिपूजयामि ॥ ४१-२६॥

कर्त्तीकरां सकरुणां रमणीं त्रिसर्गाम् ।
तां राकिणीमतिदयाममलार्थचिन्ताम् ।
भ्रान्तिं भ्रमागमवरां स्मृतिमादिपूज्याम् ।
भार्यां हरेरतिसुखां परिपूजयामि ॥ ४१-२७॥

या कातरं निरवधिप्रणयस्ववस्था
वागीश्वरी भगवती यतिकोटिनम्रा ।
ताम्राकृतिप्रकृतिचेतसि रक्तवर्णा
मायामयी सुरकलावति पातु मेऽङ्गम् ॥ ४१-२८॥

कल्पद्रुमाशयलता फलरूपिणी या
भर्गस्थिता पुरुषकोटिमुनिस्तुवन्ती ।
सा मे कुलेश्वररसं हरिहस्तपूज्या
क्षान्तिः सदा मम धनं परिपातु राधा ॥ ४१-२९॥

क्षेमङ्करी वरकरी सुकरी हरिस्था
 या सौकरी भवकरी त्रिपुरा महेशी ।
वायुस्थिता लयमयी स्थितिमार्गसङ्गा
 भङ्गपिरया सकलका परिपातु राधा ॥ ४१-३०॥

गङ्गा निर्मलभावदा ममशिरोदेशं सदा रक्षतु
श्रीराधा कुलराकिणी मम कपालोर्ध्वं महावाक्प्रिया ।
मन्त्रस्था जयदा मुदा कुमुदिनी भालं भ्रुवोरन्तरं
विद्या वाग्भवकुण्डलीफलवलाबाला च नेत्रत्रयम् ॥ ४१-३१॥

गण्डं चण्डसरस्वती श्रुतिकुलं कैलासशैलस्थिता
मेधा टं घटवासिनी शशीमुखी सूक्ष्मातिसूक्ष्माशया ।
जिह्वाग्रं चिबुकं रदावधिवहा कण्ठं गलं स्कन्धगं
स्कन्देशी दशनप्रभामलमति -- वैकुण्ठधामेश्वरी ॥ ४१-३२॥

नानावर्णविलासिनी मृदुरसं शम्भोर्भवानी शिवा
पृष्ठं कर्मसु पृष्ठगा गतिकरी नित्योल्बणी भास्वती ।
पार्श्वं मे कुलमालिनी मम कटिं लिङ्गं नितम्बाम्बरं
कामाख्या धनदायिनी सकरुणा पादद्वयं पातु सा ॥ ४१-३३॥

मातृक्रोधनिवारिणी मम शिवं षट् पत्रशोभाकरं
पातु श्रीचरुवासिनी कुलतरुं गौरी परानन्ददा ।
चैतन्यस्थलवासिनी मम गता गोविन्दमातृप्रिया
चैतन्यं सततं प्रपातु धरणी धात्री वरक्षेत्रगा ॥ ४१-३४॥

धन्या पिङ्गललोचनाम्बुजमुखी चैतन्यकर्मप्रिया
सर्वत्र प्रियमाकरोतु नियतं शक्तिः क्षमाकर्तृका ।
कीर्तिस्था मम कीर्तिचक्रनिलयं लाक्षारुणा बल्वरी
नीचा चक्रनिवासिनी मम जया जीवं मुदा पातु माम् ॥ ४१-३५॥

एतत्स्तोत्रं पठेन्नित्यं प्राणवायुवराशुभे ।
षट्चक्रभेदसमये सदा पाठ्यं सुयोगिभिः ॥ ४१-३६॥

कुलविन्याससमये कुलचक्रप्रवेशने ।
अवश्यं प्रपठेद्विद्वान् राकिणीराधिकास्तवम् ॥ ४१-३७॥

त्रिसन्ध्यं चेदमाकुर्यात् पठित्वा च पुनः पुनः ।
ध्यात्वा भावपरो भूत्वा मुच्यते भवबन्धनात् ॥ ४१-३८॥

अचलां भक्तिमाप्नोति विश्वामित्रो यथा वशी ।
पठनात् पामरो याति ब्रह्मलोकं कुलाधिप ॥ ४१-३९॥

एतत्पठनमात्रेण शीतलो गुणवान् भवेत् ।
अप्रकाश्यमिदं स्तोत्रं सर्वान्तकविनाशनम् ॥ ४१-४०॥

समभावं समाकृत्य जीवन्मुक्तो भवेद्वशी ।
पञ्चाचाररतो भूत्वा साधयेद् यदि साधनम् ॥ ४१-४१॥

कुण्डलीयोगकाले च कुलाचारं न वर्जयेत् ।
कुलाचारवर्जनेन महाहानिः प्रजायते ॥ ४१-४२॥

ब्राह्मणः क्षत्रियो वापि वैश्यो वा शूद्र एव च ।
समभावं सदा कृत्वा कुलाचारं समाश्रयेत् ॥ ४१-४३॥

कुण्डली पृथिवी देवी राकिणी स्वारिदेवता ।
तद्गेहगामिनी देवी राधिका राज्यकामिनी ॥ ४१-४४॥

अस्याः साधनकाले च समयाचारमाश्रयेत् ।
समभावे महामोक्ष इति तन्त्रार्थनिर्णयः ॥ ४१-४५॥

समभावार्थकथनं त्यक्त्वा योगी भवेत्कृती ॥ ४१-४६॥

इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धिमन्त्रप्रकरणे
षट्चक्रप्रकाशे भैरवीभैरवसंवादे स्वाधिष्ठानराकिणीस्तोत्रं
नामैकचत्वारिंशत्तमः पटलः ॥ ४१॥


SEO Keywords : Rakini Radhika Stavam,Ananda Bhairavi,Ananda Bhairava,Shiva Hymn,Shakti Hymn,Radha Stotram,Divine Hymn,Hindu Scriptures,Tantric Hymn,Sacred Chant,Radha Worship,Spiritual Meaning

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow